नोबेल् प्रशस्तिः
नोबेल् प्रशस्तिः अल्फ्रेड् नोबेल् इत्यस्य मृत्युपत्रानुगुणं व्यक्तेः अथवा संस्थानाम् अत्युच्चजनोपकारककार्यार्थं दीयमानः पुरस्कारः । अधो दर्शितेषु विभागेषु साधकेभ्यः समर्पयन्ति । इयं प्रशस्तिः जगतः सर्वोच्चः पुरस्कारः । क्रि.श. २०११तमवर्षपर्यन्तं ८२६साध्यकेभ्यः २०संस्थाभ्यः च इयं प्रशास्तिः प्रदत्ता अस्ति ।
प्रशस्तेः इतिहासः
[सम्पादयतु]अल्फ्रेड् नोबेल् वर्यः डैनमैट् इति विस्फोटकरासायनिकस्य संशोधकः । एषः विस्फोटकः विमानयाने विशेषतः उपयोगाय भवति अतः एषः अपारां सम्पत्तिं सङ्गृहीतवान् । किन्तु स्वकारणेन सम्भूतैः मृत्युघातैः विचलितः क्रि.श. १८९५तमे वर्षे स्वस्य सम्पत्तेः ९४%अंशम् अस्याः प्रशस्तेः संस्थापनार्थं विनियोक्तव्यम् इति मृत्युपत्रे अभिलिखितवान् । तदनुगुणं क्रि.श.१९०१तमे वर्षे प्रथमनोबेल्प्रशस्तिः समर्पिता ।
विविधप्रशस्तिपुरस्काराः
[सम्पादयतु]- भौतशास्त्रे नोबेल्प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
- रसायनशास्त्रे नोबेल्प्रशस्तिः - अर्हतां रायल् स्वीडीष् विज्ञानाकदमी निश्चिनोति ।
- वैद्यशास्त्रे नोबेल्प्रशस्तिः - अर्हतां क्यारोलिन्स्कासंस्था निश्चिनोति ।
- साहित्ये नोबेल्प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
- नोबेल् शान्तिप्रशस्तिः - नार्वेदेशस्य केन्द्रसंसदा नियुक्ता समितिः योग्यतां निश्चिनोति ।
- अल्फ्रेड् नोबेल् इत्यस्य संस्मरणे ब्याङ्क् आफ् स्वीडन् संस्थायाः प्रशस्तिः - रायल् स्वीडीष् विज्ञानाकदमी योग्यतां निश्चिनोति ।
नोबेल् प्रशस्तिभूषिताः भारतीयाः
[सम्पादयतु]क्रि.श. २००९पर्यन्तं ८भारतीयाः अनया प्रशस्त्या भूषिताः ।
- १. रवीन्द्रनाथ ठाकुरः - साहित्ये (क्रि.श.१९१३)
- २. चन्द्रशेखर वेङ्कटरामन् - भौतविज्ञाने (क्रि.श. १९३०)
- ३. हरगोविन्द खुराना - वैद्यशास्त्रे (क्रि.श. १९६८)
- ४. मदर तेरेसा - शान्तिप्रशस्तिः (क्रि.श. १९७९)
- ५. सुब्रह्मण्यन् चन्द्रशेखरः - भौतविज्ञाने(क्रि.श. १९८२)
- ६. अमर्त्यसेनः - अर्थशाश्त्रे (क्रि.श.१९९८)
- ७. डा.राजेन्द्रकुमारः पचौरि- परिसरसंरक्षणार्थं शान्तिप्रशस्तिः(क्रि.श.२००७)
- ८. वेङ्कटरामन् रामकृष्णन्,रसायनशास्त्रे(क्रि.श.२००९)